Press "Enter" to skip to content

श्रीकृष्णकर्णामृतम्

श्रीकृष्णकर्णामृतम् 

॥ प्रथमाश्वासः ॥
चिन्तामणिर्जयति सोमगिरिर्गुरुर्मे
शिक्षागुरुश्च भगवान् शिखिपिञ्छमौलिः ।
यत्पादकल्पतरुपल्लवशेखरेषु
लीलास्वयंवररसं लभते जयश्रीः ॥ १.१॥

अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतं
वस्तुप्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम् ।
स्रस्तस्रस्तनिरुद्धनीविविलसद्गोपीसहस्रावृतं
हस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति ॥ १.२॥

चातुर्यैकनिधानसीमचपलाऽपाङ्गच्छटामन्दरं
लावण्यामृतवीचिलालितदृशं लक्ष्मीकटक्षादृतम् ।
कालिन्दीपुलिनाङ्गणप्रणयिनं कामावताराङ्कुरं
बालं नीलममी वयं मधुरिमस्वाराज्यमाराध्नुमः ॥ १.३॥

बर्होत्तंसविलासिकुन्तलभरं माधुर्यमग्नाननं
प्रोन्मीलन्नवयौवनं प्रविलसद्वेणुप्रणादामृतम् ।
आपीनस्तनकुड्मलाभिरभितो गोपीभिराराधितं
ज्योतिश्चेतसि नश्चकास्ति जगतामेकाभिरामाद्भुतम् ॥ १.४॥

मधुरतरस्मितामृतविमुग्धमुखाम्बुरुहं
मदशिखिपिञ्छलाञ्छितमनोज्ञकचप्रचयम् ।
विषयविषामिषग्रसनगृध्नुषि चेतसि मे
विपुलविलोचनं किमपि धाम चकास्ति चिरम् ॥ १.५॥

मुकुलायमाननयनाम्बुजं विभोर्मुरलीनिनादमकरन्दनिर्भरम् ।
मुकुरायमाणमृदुगण्डमण्डलं मुखपङ्कजं मनसि मे विजृम्भताम् ॥ १.६॥

कमनीयकिशोरमुग्धमूर्तेः कलवेणुक्वणितादृताननेन्दोः ।
मम वाचि विजृम्भतां मुरारेर्मधुरिम्णः कणिकापि कापि कापि ॥ १.७॥

मदशिखण्डिशिखण्डविभूषणं मदनमन्थरमुग्धमुखांबुजम् ।
व्रजवधूनयनाञ्जनरञ्जितं विजयतां मम वाङ्मयजीवितम् ॥ १.८॥

पल्लवारुणपाणिपङ्कजसङ्गिवेणुरवाकुलं
फुल्लपाटलपाटलीपरिवादिपादसरोरुहम् ।
उल्लसन्मधुराधरद्युतिमञ्जरीसरसाननं
वल्लवीकुचकुम्भकुङ्कुमपङ्किलं प्रभुमाश्रये ॥ १.९॥

अपाङ्गरेखाभिरभङ्गुराभिरनङ्गलीलारसरञ्जिताभिः ।
अनुक्षणं वल्लवसुन्दरीभिरभ्यर्चमानं विभुमाश्रयामः ॥ १.१०॥

हृदये मम हृद्यविभ्रमाणां हृदयं हर्षविशाललोलनेत्रम् ।
तरुणं व्रजबालसुन्दरीणां तरलं किञ्चन धाम सन्निधत्ताम् ॥ १.११॥

निखिलभुवनलक्ष्मीनित्यलीलास्पदाभ्यां
कमलविपिनवीथीगर्वसर्वङ्कषाभ्याम् ।
प्रणमदभयदानप्रौढगाढोद्धताभ्यां
किमपि वहतु चेतः कृष्णपादाम्बुजाभ्याम् ॥ १.१२॥

प्रणयपरिणताभ्यां प्राभवालम्बनाभ्यां
प्रतिपदललिताभ्यां प्रत्यहं नूतनाभ्याम् ।
प्रतिमुहुरधिकाभ्यां प्रस्नुवल्लोचनाभ्यां
प्रभवतु हृदये नः प्राणनाथः किशोरः ॥ १.१३॥

माधुर्यवारिधिमदान्धतरङ्गभङ्गीश‍ृङ्गारसंकलितशीतकिशोरवेषम् ।
आमन्दहासललिताननचन्द्रबिम्बमानन्दसम्प्लवमनुप्लवतां मनो मे ॥ १.१४॥

अव्याजमञ्जुलमुखाम्बुजमुग्धभावैरास्वाद्यमाननिजवेणुविनोदनादम् ।
आक्रीडतामरुणपादसरोरुहाभ्यामार्द्रे मदीयहृदये भुवनार्द्रमोजः ॥ १.१५॥

मणिनूपुरवाचालं वन्दे तच्चरणं विभोः ।
ललितानि यदीयानि लक्ष्माणि व्रजवीथिषु ॥ १.१६॥

मम चेतसि स्फुरतु वल्लवीविभोर्मणिनूपुरप्रणयिमञ्जुशिञ्जितम् ।
कमलावनेचरकलिन्दकन्यकाकलहंसकण्ठकलकूजितादृतम् ॥ १. १७॥

तरुणारुणकरुणामयविपुलायतनयनं
कमलाकुचकलशीभरपुलकीकृतहृदयम् ।
मुरलीरवतरलीकृतमुनिमानसनलिनं
मम खेलति मदचेतसि मधुराधरममृतम् ॥ १.१८॥

आमुग्धमर्धनयनाम्बुजचुम्ब्यमान-
हर्षाकुलव्रजवधूमधुराननेन्दोः ।
आरब्धवेणुरवमादिकिशोरमूर्ते-
राविर्भवन्ति मम चेतसि केऽपि भावाः ॥ १.१९॥

कलक्वणितकङ्कणं करनिरुद्धपीताम्बरं
क्रमप्रसृतकुन्तलं कलितबर्हभूषं विभोः ।
पुनः प्रसृतिचापलं प्रणयिनीभुजायन्त्रितं
मम स्फुरतु मानसे मदनकेलिशय्योत्थितम् ॥ १.२०॥

स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितं
प्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमम् ।
श्रोतृश्रोत्रमनोहरव्रजवधूलीलामिथो जल्पितं
मिथ्यास्वापमुपास्महे भगवतः क्रीडानिमीलद्दृशः ॥ १.२१॥

विचित्रपत्राङ्कुरशालिबालास्तनान्तरं मौनिमनोऽन्तरं वा ।
अपास्य वृन्दावनपादपास्यमुपास्यमन्यन्न विलोकयामः ॥ १.२२॥

सार्धं समृद्धैरमृतायमानैराध्यायमानैर्मुरलीनिनादैः ।
मूर्धाभिषिक्तं मधुराकृतीनां बालं कदा नाम विलोकयिष्ये ॥ १.२३॥

शिशिरीकुरुते कदा नु नः शिखिपिञ्छाभरणश्शिशुर्दृशोः ।
युगलं विगलन्मधुद्रवस्मितमुद्रामृदुना मुखेन्दुना ॥ १.२४॥

कारुण्यकर्बुरकटाक्षनिरीक्षणेन तारुण्यसंवलितशैशववैभवेन ।
आपुष्णता भुवनमद्भुतविभ्रमेण श्रीकृष्णचन्द्र शिशिरीकुरु लोचनं मे ॥ १.२५॥

कदा वा कालिन्दीकुवलयदलश्यामलतराः
कटाक्षा लक्ष्यन्ते किमपि करुणावीचिनिचिताः ।
कदा वा कन्दर्पप्रतिभटजटाचन्द्रशिशिराः
किमप्यन्तस्तोषं ददति मुरलीकेलिनिनदाः ॥ १.२६॥

अधीरमालोकितमार्द्रजल्पितं गतं च गंभीरविलासमन्थरम् ।
अमन्दमालिङ्गितमाकुलोन्मदस्मितं च ते नाथ वदन्ति गोपिकाः ॥ १.२७॥

अस्तोकस्मितभरमायतायताक्षं निःशेषस्तनमृदितं व्रजाङ्गनाभिः ।
निस्सीमस्तबकितनीलकान्तिधारं दृश्यासं त्रिभुवनसुन्दरं महस्ते ॥ १.२८॥

मयि प्रसादं मधुरैः कटाक्षैर्वंशीनिनादानुचरैर्विधेहि ।
त्वयि प्रसन्ने किमिहापरैर्नस्त्वय्यप्रसन्ने किमिहापरैर्नः ॥ १.२९॥

निबद्धमुग्धाञ्जलिरेष याचे नीरन्ध्रदैन्योन्नतमुक्तकण्ठम् ।
दयाम्बुधे देव भवत्कटाक्षदाक्षिण्यलेशेन सकृन्निषिञ्च ॥ १.३०॥

पिञ्छावतंसरचनोचितकेशपाशे पीनस्तनीनयनपङ्कजपूजनीये ।
चन्द्रारविन्दविजयोद्यतवक्त्रबिम्बे चापल्यमेति नयनं तव शैशवे नः ॥ १.३१॥

त्वच्छैशवं त्रिभुवनाद्भुतमित्यवैमि यच्चापलं च मम वागविवादगम्यम् ।
तत् किं करोमि विरणन्मुरलीविलासमुग्धं मुखाम्बुजमुदीक्षितुमीक्षणाभ्याम् ॥ १.३२॥

पर्याचितामृतरसानि पदार्थभङ्गीफल्गूनि वल्गितविशालविलोचननानि ।
बाल्याधिकानि मदवल्लवभावितानि भावे लुठन्ति सुदृशां तव जल्पितानि ॥ १.३३॥

पुनः प्रसन्नेन मुखेन्दुतेजसा पुरोऽवतीर्णस्य कृपामहाम्बुधेः ।
तदेव लीलामुरलीरवामृतं समाधिविघ्नाय कदा नु मे भवेत् ॥ १.३४॥

भावेन मुग्धचपलेन विलोकनेन मन्मानसे किमपि चापलमुद्वहन्तम् ।
लोलेन लोचनरसायनमीक्षणेन लीलाकिशोरमुपगूहितुमुत्सुकोऽस्मि ॥ १.३५॥

अधीरबिम्बाधरविभ्रमेण हर्षार्द्रवेणुस्वरसम्पदा च ।
अनेन केनापि मनोहरेण हा हन्त हा हन्त मनो धुनोति ॥ १.३६॥

यावन्न मे निखिलमर्मदृढाभिघातनिस्सन्धिबन्धनमुदेत्यसवोपतापः ।
तावद्विभो भवतु तावकवक्त्रचन्द्रचन्द्रातपद्विगुणिता मम चित्तधारा ॥ १.३७॥

यावन्न मे नरदशा दशमी दृशोऽपि रन्ध्रादुदेति तिमिरीकृतसर्वभावा ।
लावण्यकेलिभवनं तव तावदेतु लक्ष्म्याः समुत्क्वणितवेणुमुखेन्दुबिम्बम् ॥ १.३८॥

आलोललोचनविलोकितकेलिधारानीराजिताग्रसरणेः करुणाम्बुराशेः ।
आर्द्राणि वेणुनिनदैः प्रतिनादपूरैराकर्णयामि मणिनूपुरशिञ्जितानि ॥ १.३९॥

हे देव हे दयित हे जगदेकबन्धो के कृष्ण हे चपल हे करुणैकसिन्धो ।
हे नाथ हे रमण हे नयनाभिराम हा हा कदा नु भवितासि पदं दृशोर्मे ॥ १.४०॥

अमून्यधन्यानि दिनान्तराणि हरे त्वदालोकनमन्तरेण ।
अनाथबन्धो करुणैकसिन्धो हा हन्त हा हन्त कथं नयामि ॥ १.४१॥

किमिव श‍ृणुमः कस्य ब्रूमः कथं कृतमाशया
कथयत कथां धन्यामन्यामहो हृदयेशयः ।
मधुरमधुरस्मेराकारे मनोनयनोत्सवे
कृपणकृपणा कृष्णे तृष्णा चिरं बत लम्बते ॥ १.४२॥

आभ्यां विलोचनाभ्यामम्बुजदलललितलोचनं बालम् ।
द्वाभ्यामपि परिरब्धुं दूरे मम हन्त दैवसमाग्री ॥ १.४३॥

अश्रान्तस्मितमरुणारुणाधरोष्ठं हर्षार्द्रद्विगुणमनोज्ञवेणुगीतम् ।
विभ्राम्यद्विपुलविलोचनार्धमुग्धं वीक्षिष्ये तव वदनाम्बुजं कदा नु ॥ १.४४॥

लीलायताभ्यां रसशीतलाभ्यां नीलारुणाभ्यां नयनाम्बुजाभ्याम् ।
आलोकयेदद्भुतविभ्रमाभ्यां बालः कदा कारुणिकः किशोरः ॥ १.४५॥

बहुलचिकुरभारं बद्धपिञ्छावतंसं चपलचपलनेत्रं चारुबिम्बाधरोष्ठम् ।
मधुरमृदुलहासं मन्थरोदारलीलं मृगयति नयनं मे मुग्धवेषं मुरारेः ॥ १.४६॥

बहुलजलदच्छायाचोरं विलासभरालसं
मदशिखिशिखालीलोत्तंसं मनोज्ञमुखाम्बुजम् ।
कमपि कमलापाङ्कोदग्रप्रपन्नजगज्जितं
मधुरिमपरीपाकोद्रेकं वयं मृगयामहे ॥ १.४७॥

परामृश्यं दूरे परिषदि मुनीनां व्रजवधू-
दृशां दृश्यं शश्वत् त्रिभुवनमनोहारिवपुषम् ।
अनामृश्यं वाचामनिदमुदयानामपि कदा
दरीदृश्ये देव दरदलितनीलोत्पलनिभम् ॥ १.४८॥

लीलाननाम्बुजमधीरमुदीक्षमाणं
नर्माणि वेणुविवरेषु निवेशयन्तम् ।
डोलायमाननयनं नयनाभिरामं
देवं कदा नु दयितं व्यतिलोकयिष्ये ॥ १.४९॥

लग्नं मुहुर्मनसि लम्पटसम्प्रदायि-
लेखाविलेखनरसज्ञमनोज्ञवेषम् ।
लज्जन्मृदुस्मितमधुस्नपिताधरांशु-
राकेन्दुलालितमुखेन्दुमुकुन्दबाल्यम् ॥ १.५०॥

अहिमकरकरनिकरमृदुमृदितलक्ष्मी-
सरसतरसरसिरुहसदृशदृशि देवे ।
व्रजयुवतिरतिकलहविजयिनिजलीला-
मदमुदितवदनशशिमधुरिमणि लीये ॥ १.५१॥

करकमलदलदलितललिततरवंशी
कलनिनदगलदमृतघनसरसि देवे ।
सहजरसभरभरितदरहसितवीथी-
सततवहदधरमणिमधुरिमणि लीये ॥ १.५२॥

कुसुमशरशरसमरकुपितमदगोपी-
कुचकलशघुसृणरसलसदुरसि देवे ।
मदलुलितमृदुहसितमुषितशशिशोभा-
मुहुरधिकमुखकमलमधुरिमणि लीये ॥ १.५३॥

आनम्रामसितभ्रुवोरुपचितामक्षीणपक्ष्माङ्कुरे-
ष्वालोलामनुरागिणोर्नयनयोरार्द्रां मृदौ जल्पिते ।
आताम्रामधरामृते मदकलामम्लानवंशीरवे-
ष्वाशास्ते मम लोचनं व्रजशिशोर्मूर्तिं जगन्मोहिनीम् ॥ १.५४॥

तत्कैशोरं तच्च वक्त्रारविन्दं तत्कारुण्यं ते च लीलाकटाक्षाः ।
तत्सौन्दर्यं सा च मन्दस्मितश्रीः सत्यं सत्यं दुर्लभं दैवतेषु ॥ १.५५॥

विश्वोपप्लवशमनैकबद्धदीक्षं विश्वासस्तवकितचेतसां जनानाम् ।
पश्यामः प्रतिनवकान्तिकन्दलार्द्रं पश्यामः पथि पथि शैशवं मुरारेः ॥ १.५६॥

मौलिश्चन्द्रकभूषणा मरकतस्तम्भाभिरामं वपु-
र्वक्त्रं चित्रविमुग्धहासमधुरं बाले विलोले दृशौ ।
वाचश्शैशवशीतलामदगजश्लाघ्या विलासस्थिति-
र्मन्दं मन्दमये क एष मथुरावीथीमितो गाहते ॥ १.५७॥

पादौ पादविनिर्जिताम्बुजवनौ पद्मालयालङ्कृतौ
पाणी वेणुविनोदनप्रणयिनौ पर्यन्तशिल्पश्रियौ ।
बाहू दोहदभाजनं मृगदृशां माधुर्यधारा गिरो
वक्त्रं वाग्विभवातिलङ्घितमहो बालं किमेतन्महः ॥ १.५८॥

बर्हं नाम विभूषणं बहुमतं वेषाय शेषैरलं
वक्त्रं द्वित्रिविशेषकान्तिलहरीविन्यासधन्याधरम् ।
शीलैरल्पधियामगम्यविभवैः श‍ृङ्गारभङ्गीमयं
चित्रं चित्रमहो विचित्रमहहो चित्रं विचित्रं महः ॥ ११.५९॥

अग्रे समग्रयति कामपि केलिलक्ष्मी-
मन्यासु दिक्ष्वपि विलोचनमेव साक्षी ।
हा हन्त हस्तपथदूरमहो किमेत-
दासीत् किशोरमयमम्ब जगत्त्रयं मे ॥ १.६०॥

चिकुरं बहुलं विरलं भ्रमरं मृदुलं वचनं विपुलं नयनम् ।
अधरं मधुरं वदनं ललितं चपलं चरितन्तु कदाऽनुभवे ॥ १.६१॥

परिपालय नः कृपालयेत्यसकृज्जल्पितमात्मबान्धवः ।
मुरलीमृदुलस्वनान्तरे विभुराकर्णयिता कदा नु नः ॥ १.६२॥

कदा नु कस्यां नु विपद्दशायां कैशोरगन्धिः करुणाम्बुधिर्नः ।
विलोचनाभ्यां विपुलायताभ्यां व्यालोकयिष्यन् विषयीकरोति ॥ १.६३॥

मधुरमधरबिम्बे मञ्जुलं मन्दहासे शिशिरममृतवाक्ये शीतलं दृष्टिपाते ।
विपुलमरुणनेत्रे विश्रुतं वेणुनादे मरकतमणिनीलं बालमालोकये नु ॥ १.६४॥

माधुर्यादपि मधुरं मन्मथतातस्य किमपि कैशोरम् ।
चापल्यादपि चपलं चेतो मम हरति हन्त किं कुर्मः ॥ १.६५॥

वक्षःस्थले च विपुलं नयनोत्पले च मन्दस्मिते च मृदुलं मदजल्पिते च ।
बिम्बाधरे च मधुरं मुरलीरवे च बालं विलासनिधिमाकलये कदा नु ॥ १.६६॥

आर्द्रावलोकितदयापरिणद्धनेत्रमाविष्कृतस्मितसुधामधुराधरोष्ठम् ।
आद्यं पुमांसमवतंसितबर्हिबर्हमालोकयन्ति कृतिनः कृतपुण्यपुञ्जाः ॥ १.६७॥

मारः स्वयं नु मधुरद्युतिमण्डलं नु माधुर्यमेव नु मनोनयनामृतं नु ।
वाणीमृजा नु मम जीवितवल्लभो नु बालोऽयमभ्युदयते मम लोचनाय ॥ १.६८॥

बालोऽयमालोलविलोचनेन वक्त्रेण चित्रीकृतदिङ्मुखेन ।
वेषेण घोषोचितभूषणेन मुग्धेन दुग्धे नयनोत्सुकं नः ॥ १.६९॥

आन्दोलिताग्रभुजमाकुलनेत्रलीलमार्द्रस्मितार्द्रवदनाम्बुजचन्द्रबिम्बम् ।
शिञ्जानभूषणशतं शिखिपिञ्छमौलिं शीतं विलोचनरसायनमभ्युपैति ॥ १.७०॥

पशुपालपालपरिषद्विभूषणं शिशुरेष शीतलविलोललोचनः ।
मृदुलस्मितार्द्रवदनेन्दुसम्पदा मदयन्मदीयहृदयं विगाहते ॥ १.७१॥

किमिदमधरवीथीकॢप्तवंशीनिनादं किरति नयनयोर्नः कामपि प्रेमधाराम् ।
तदिदममरवीथीदुर्लभं वल्लभं नः त्रिभुवनकमनीयं दैवतं जीवितं
च ॥ १.७२॥

तदिदमुपनतं तमालनीलं तरलविलोचनतारकाभिरामम् ।
मुदितमुदितवक्त्रचन्द्रबिम्बं मुखरितवेणुविलासजीवितं मे ॥ १.७२॥

चापल्यसीम चपलानुभवैकसीम चातुर्यसीम चतुराननशिल्पसीम ।
सौरभ्यसीम सकलाद्भुतकेलिसीम सौभाग्यसीम तदिदं व्रजभाग्यसीम ॥ १.७३॥

माधुर्येण द्विगुणशिशिरं वक्त्रचन्द्रं वहन्ती
वंशीवीथीविगलदमृतस्रोतसा सेचयन्ती ।
मद्वाणीनां विहरणपदं मत्तसौभाग्यभाजां
मत्पुण्यानां परिणतिरहो नेत्रयोस्सन्निधत्ते ॥ १.७४॥

तेजसेऽस्तु नमो धेनुपालिने लोकपालिने ।
राधापयोधरोत्सङ्गशायिने शेषशायिने ॥ १.७५॥

धेनुपालदयितास्तनस्थलीधन्यकुङ्कुमसनाथकान्तये ।
वेणुगीतगतिमूलवेधसे तेजसे तदिदमों नमो नमः ॥ १.७६॥

मृदुक्वणन्नूपुरमन्थरेण बालेन पादाम्बुजपल्लवेन ।
अनुक्वणन्मञ्जुलवेणुगीतमायाति मे जीवितमात्तकेलि ॥ १.७७॥

सोऽयं विलासमुरलीनिनदामृतेन सिञ्चन्नुदञ्चितमिदं मम कर्णयुग्मम् ।
आयाति मे नयनबन्धुरनन्यबन्धुरानन्दकन्दलितकेलिकटाक्षलक्ष्यः ॥ १.७८॥

दूराद्विलोकयति वारणखेलगामी धाराकटाक्षभरितेन विलोचनेन ।
आरादुपैति हृदयङ्गमवेणुनादवेणीदुघेन दशनावरणेन देवः ॥ १.७९॥

त्रिभुवनसरसाभ्यां दीप्तभूषापदाभ्यां
दृशि दृशि शिशिराभ्यां दिव्यलीलाकुलाभ्याम् ।
अशरणशरणाभ्यामद्भुताभ्यां पदाभ्या-
मयमयमनुकूजद्वेणुरायाति देवः ॥ १.८०॥

सोऽयं मुनीन्द्रजनमानसतापहारी सोऽयं मदव्रजवधूवसनापहारी ।
सोऽयं तृतीयभुवनेश्वरदर्पहारी सोऽयं मदीयहृदयाम्बुरुहापहारी ॥ १.८१॥

सर्वज्ञत्वे च मौग्ध्ये च सार्वभौममिदं मम ।
निर्विशन्नयनं तेजो निर्वाणपदमश्नुते ॥ १.८२॥

पुष्णानमेतत्पुनरुक्तशोभमुष्णेतरांशोरुदयान्मुखेन्दोः ।
तृष्णाम्बुराशिं द्विगुणीकरोति कृष्णाह्वयं किञ्चन जीवितं मे ॥ १.८३॥

तदेतदाताम्रविलोचनश्रीसम्भाविताशेषविनम्रवर्गम् ।
मुहुर्मुरारेर्मधुराधरोष्ठं मुखाम्बुजं चुम्बति मानसं मे ॥ १.८४॥

करौ शरदुदञ्चिताम्बुजविलासशिक्षागुरू
पदौ विबुधपादपप्रथमपल्लवोल्लङ्घिनौ ।
दृशौ दलितदुर्मदत्रिभुवनोपमानश्रियौ
विलोक्य सुविलोचनामृतमहो महच्छैशवम् ॥ १.८५॥

आचिन्वानमहन्यहन्यहनि साकारान् विहारक्रमा-
नारुन्धानमरुन्धतीहृदयमप्यार्द्रस्मितास्यश्रिया ।
आतन्वानमनन्यजन्मनयनश्लाघ्यामनर्घ्यां दशा-
मानन्दं व्रजसुन्दरीस्तनतटीसाम्राज्यमाज्जृम्भते ॥ १.८६॥

समुच्छ्वसितयौवनं तरलशैशवालङ्कृतं
मदच्छुरितलोचनं मदनमुग्धहासामृतम् ।
प्रतिक्षणविलोकनं प्रणयपीतवंशीमुखं
जगत्त्रयविमोहनं जयति मामकं जीवितम् ॥ १.८७॥

चित्रं तदेतच्चरणारविन्दं चित्रं तदेतन्नयनारविन्दम् ।
चित्रं तदेतद्वदनारविन्दं चित्रं तदेतत्पुनरम्ब चित्रम् ॥ १.८८॥

अखिलभुवनैकभूषमधिभूषितजलधिदुहितृकुचकुम्भम् ।
व्रजयुवतीहारवल्लीमरकतनायकमहामणिं वन्दे ॥ १.८९॥

कान्ताकचग्रहणविग्रहबद्धलक्ष्मीखण्डाङ्गरागरसरञ्जितमञ्जुलश्रीः ।
गण्डस्थलीमुकुरमण्डलखेलमानघर्माङ्कुरं किमपि खेलति कृष्णतेजः ॥ १.९०॥

मधुरं मधुरं वपुरस्य विभोर्मधुरं मधुरं वदनं मधुरम् ।
मधुगन्धि मृदुस्मितमेतदहो मधुरं मधुरं मधुरं मधुरम् ॥ १.९१॥

श‍ृङ्गाररससर्वस्वं शिखिपिञ्छविभूषणम् ।
अङ्गीकृतनराकारमाश्रये भुवनाश्रयम् ॥ १.९२॥

नाद्यापि पश्यति कदाचन दर्शनेन चित्तेन चोपनिषदा सुदृशां सहस्रम् ।
स त्वं चिरं नयनयोरनयोः पदव्यां स्वामिन् कया नु कृपया मम सन्निधत्से ॥ १.९३॥

केयं कान्तिः केशव त्वन्मुखेन्दोः कोऽयं वेषः कोऽपि वाचामभूमिः ।
सेयं सोऽयं स्वादुता मञ्जुलश्रीः भूयो भूयो भूयशस्तां नमामि ॥ १.९४॥

वदनेन्दुविनिर्जितश्शशी दशधा देव पदं प्रपद्यते ।
अधिकां श्रियमश्नुतेतरां तव कारुण्यविजृम्भितं कियत् ॥ १.९५॥

तत्त्वन्मुखं कथमिवाब्जसमानकक्षं वाङ्माधुरीबहुलपर्वकलासमृद्धम् ।
तत् किं ब्रुवे किमपरं भुवनैककान्तं यस्य त्वदाननसमा सुषमा सदा स्यात् ॥ १.९६॥

शुश्रूषसे यदि वचः श‍ृणु मामकीनं पूर्वैरपूर्वकविभिर्न कटाक्षितं यत् ।
नीराजनक्रमधुरं भवदाननेन्दोः निर्व्याजमर्हति चिराया शशिप्रदीपः ॥ १.९७॥

अखण्डनिर्वाणरसप्रवाहैर्विखण्डिताशेषरसान्तराणि ।
अयन्त्रितोद्वान्तसुधार्णवानि जयन्ति शीतानि तव स्मितानि ॥ १.९८॥

कामं सन्तु सहस्रशः कतिपये स्वारस्यधौरेयकाः
कामं वा कमनीयतापरिणतिस्वाराज्यबद्धव्रताः ।
तैर्नैवं विवदामहे न च वयं देव प्रियं ब्रूमहे
यत्सत्यं रमणीयतापरिणतिस्त्वय्येव पारंगता ॥ १.९९॥

मन्दारमूले मदनाभिरामं बिम्बाधरापूरितवेणुनादम् ।
गोगोपगोपीजनमध्यसंस्थं गोपं भजे गोकुलपूर्णचन्द्रम् ॥ १.१००॥

गलद्व्रीडा लोला मदनवनिता गोपवनिता
मधुस्फीतं गीतं किमपि मधुरा चापलधुरा ।
समुज्जृम्भा गुम्फा मधुरिमगिरां मादृशगिरां
त्वयि स्थाने जाते दधति चपलं जन्म च फलम् ॥ १.१०१॥

भुवनं भवनं विलासिनी श्रीस्तनयस्तामरसासनः स्मरश्च ।
परिचारपरम्पराः सुरेन्द्रास्तदपि त्वच्चरितं विभो विचित्रम् ॥ १.१०२॥

देवस्त्रिलोकसौभाग्यकस्तूरीतिलकाङ्कुरः ।
जीयाद् व्रजाङ्गनानङ्गकेलीललितविभ्रमः ॥ १.१०३॥

प्रेमदं च मे कामदं च मे वेदनं च मे वैभवं च मे ।
जीवनं च मे जीवितं च मे दैवतं च मे देव नापरम् ॥ १.१०४॥

माधुर्येण विजृम्भन्तां वाचो नस्तव वैभवे ।
चापल्येन विवर्धन्तां चिन्ता नस्तव शैशवे ॥ १.१०५॥

यानि त्वच्चरितामृतानि रसनालेह्यानि धन्यात्मनां
ये वा चापलशैशवव्यतिकरा राधापराधोन्मुखाः ।
या वा भावितवेणुगीतगतयो लीलामुखाम्भोरुहे
धारावाहिकया वहन्तु हृदये तान्येव तान्येव मे ॥ १.१०६॥

भक्तिस्त्वयि स्थिरतरा भगवन् यदि स्या-
द्दैवेन नः फलितदिव्यकिशोरवेषे ।
मुक्तिः स्वयं मुकुलिताञ्जलि सेवतेऽस्मान्
धर्मार्थकामगतयः समयप्रतीक्षाः ॥ १.१०७॥

जय जय जय देव देव देव त्रिभुवनमङ्गलदिव्यनामधेय ।
जय जय जय बालकृष्णदेव श्रवणमनोनयनामृतावतार ॥ १.१०८॥

तुभ्यं निर्भरहर्षवर्षविवशावेशस्फुटाविर्भवद्-
भूयश्चापलभूषितेषु सुकृतां भावेषु निर्भासते ।
श्रीमद्गोकुलमण्डनाय महते वाचां विदूरस्फुटन्-
माधुर्यैकरसार्णवाय महसे कस्मै चिदस्मै नमः ॥ १.१०९॥

ईशानदेवचरणाभरणेन नीवीदामोदरस्थिरयशः स्तबकोद्गमेन ।
लीलाशुकेन रचितं तव देव कृष्णकर्णामृतं वहतु कल्पशतान्तरेऽपि ॥ १.११०॥

var De's book has additional two verses
धन्यानां सरसानुलापसरणीसौरभ्यमभ्यस्यतां
कर्णानां विवरेषु कामपि सुधावृष्टिं दुहानं मुहुः ।
वन्यानां सुदृशां मनोनयनयोर्मग्नस्य देवस्य नः
कर्णानां वचसां विजृम्भितमहो कृष्णस्य कर्णामृतम् ॥ १.१११॥

अनुग्रहद्विगुणविशाललोचनैरनुस्मरन् मृदुमुरलीरवामृतैः ।
यतो यतः प्रसरति मे विलोचनं ततस्ततः स्फुरतु तवैव वैभवम् ॥ १.११२॥



॥ इति श्रीकृष्णकर्णामृते प्रथमाश्वासः समाप्तः ॥

॥ प्रथमाश्वासः ॥

चिन्तामणिर्जयति सोमगिरिर्गुरुर्मे
शिक्षागुरुश्च भगवान् शिखिपिञ्छमौलिः ।
यत्पादकल्पतरुपल्लवशेखरेषु
लीलास्वयंवररसं लभते जयश्रीः ॥ १.१॥

अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतं
वस्तुप्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम् ।
स्रस्तस्रस्तनिरुद्धनीविविलसद्गोपीसहस्रावृतं
हस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति ॥ १.२॥

चातुर्यैकनिधानसीमचपलाऽपाङ्गच्छटामन्दरं
लावण्यामृतवीचिलालितदृशं लक्ष्मीकटक्षादृतम् ।
कालिन्दीपुलिनाङ्गणप्रणयिनं कामावताराङ्कुरं
बालं नीलममी वयं मधुरिमस्वाराज्यमाराध्नुमः ॥ १.३॥

Comments are closed.

You cannot copy content of this page